चन्द्रिका-२
यदार्भकः सर्तुमथ प्रवर्तते
पुरः प्रयासेन शनैः स्ववक्षसा ।
त्रिविक्रमक्रान्तिनिभस्तयोस्तदा
हिमालयारोहणवन्महोत्सवः ॥ ६ ॥
तडित्प्रभावत्स्फुरदुज्ज्वलस्मितं
प्रदर्शयन्तीं तनयां यदृच्छया ।
क्षमा निजाङ्के विनिवेश्य हर्षिता
मुहुर्मुहुः चुम्बति नैव तृप्यति ॥ ७
॥
वचोभिरप्यर्थविवर्जितैः शिशोः
पिता त्वभिप्रायशतान् हि बुध्यते ।
यथाम्बरे मेघपरम्पराकृतौ
अवैति बालः मृगरूपशृङ्खलाम् ॥ ८ ॥
स्वकायमुद्धृत्य करौ धरातले
निवेश्य जानुद्वयमप्यसौ सुता ।
यदा परिक्रामति वीक्षितुं जगत्
निमज्जतस्तौ खलु हर्षसागरे ॥ ९ ॥
विनाश्रयं तिष्ठति चन्द्रिकाद्य वै
अहो परिक्रामति भित्तिमाश्रिता ।
विनावलम्बं चलितुं प्रवर्तते
इति प्रवृत्तानि महांसि तद्गृहे ॥ १०
॥
- - - -
No comments:
Post a Comment