Saturday, September 5, 2015

Sanskrit Blog: Chandrika (A fairy Tale)-1

चन्द्रिका-१

उवास कश्चिद्वणिजः स्वकर्मणा
हरेः कृपापात्रगतो विभूतिमान् ।
प्रियासमेतो नगरे महापुरे
स्वधर्ममाश्रित्य सुनन्दनाभिधः ॥ १ ॥

सुनन्दनस्याप्रतिमा वधूः क्षमा
स्वभर्तुरिष्टा गुणरूपसम्पदा ।
परस्परश्रीप्रथनेन बन्धुरौ
विभावरीन्दू इव तौ बभूवतुः ॥ २ ॥

तयोर्द्वयोः धर्म्यसुखेषु सक्तयोः
अजायतापूर्वसुखप्रदा सुता ।
प्रमोदयन्ती पितरौ स्वलीलया
शरीरबद्धार्जितसत्कृतिर्यथा ॥ ३ ॥

सुतप्तजाम्बूनदवर्णभास्वरा
शिरीषपुष्पादपि कोमलाकृतिः ।
विलोकनेनैव महार्घहर्षदा
यथार्थनाम्नी खलु चन्द्रिकाभिधा ॥ ४ ॥

शिशुर्जनन्याः स्तनपानवाञ्छया
यदा रजन्यामरुदत् पिता द्रुतम् ।
प्रियात्मजाप्रेमतुलानवस्थितो

प्रसुप्तपत्नीं कथमप्यबोधयत् ॥ ५ ॥
- - - - 

No comments:

Post a Comment