चन्द्रिका-४
याते
काले चन्द्रिकाभूत्कुमारी
शालां
यान्ती स्नेहितानां समूहे ।
पित्रोः
तस्याः इङ्गितेष्टार्थसिद्धौ
प्रेम्णा
सर्वं कुर्वतोरात्मतृप्त्यै ॥ १५ ॥
पुत्र्यां
शुभ्रैः हासकल्लोलफेनैः
आनन्दाब्धौ
मज्जयन्त्यामुभौ तौ ।
व्याधिग्राहः
प्राहरत् द्राक्क्षमां तां
ईर्ष्याग्रस्तं
किं भवेद्दैवमेवम् ॥ १६ ॥
व्याधेर्बाधां
दुस्सहां सा कथञ्चित्
सोढुं
येते आत्मजाक्षोभभीत्या ।
आप्तानां
वै शोभनाकांक्षया यत्
कुर्वन्त्याशाबाधनं
सम्भवेत्तत् ॥ १७ ॥
व्याधिव्याधः
वागुरां ग्लानिरूपां
तस्या
देहे कोमले क्षेपयित्वा
योषैणीं
तां रोदयामास यावत्
वैद्यान्
भर्तानाययत्तावदेव॥ १८ ॥ - - - -