Sanskrit blog: Humour-68
हास्यसीकरः-६८
ब्रह्मदत्तः
मरणशय्यायां शयानः आसीत् । तस्य आप्तवयस्यः शम्भुः तं द्रष्टुं तत्र आगतः । शम्भुः
ब्रह्मदत्तस्य शय्यायाः निकटे स्थित्वा ब्रह्मदत्तमपश्यत् । ब्रह्मदत्तः
वक्तुमशक्तः सखेदं शम्भुं हस्तसंज्ञाभिः पत्रं लेखनीं च दातुं प्रार्थयत् ।
शम्भुः तथैव अकरोत् । यावत् ब्रह्मदत्तः पत्रे किमपि अलिखत् तावदेव सः असूनत्यजत्
। खिन्नः शम्भुः तत्समये तत्पत्रपठनं नोचितमिति मत्वा कञ्चुकस्यूते निक्षिप्य गृहं
गतः । गृहे पत्रं व्यस्मरत् अतः नापठच्च । अन्येद्युः ब्रह्मदत्तस्मरणसभा आयोजिता
यत्र शम्भुः ब्रह्मदत्तस्य विषये किमपि भाषितुं सर्वैः प्रार्थितः । यावत् भाषितुं
प्रारब्धवान् तावदेव सः ब्रह्मदत्तलिखितं पत्रं सस्मार यत् दिष्ट्या तस्य
कञ्चुकस्यूते एव पिहितमासीत् । सः उच्चैरवदत्, “ अयि भोः, मरणशय्यायां शयानस्य ब्रह्मदत्तस्य अन्तिमसन्देशः अधुनैव मम
कञ्चुकस्यूते वर्तते । तं सन्देशं सर्वे शृण्वन्तु ।“ इति । पत्रमपावृत्य प्रथमं तत्र लिखितं
स्वगतमपठत्, “रे मूर्ख ! मम श्वासाधारस्य
आम्लजनकनालस्योपरि स्थितोऽसि” ।
- - - -
No comments:
Post a Comment