हास्यसीकरः-६६
द्वौ सिह्मौ मृगालये आस्ताम् । एकः मृगालये जातः अपरः वने
जातः । एकदा तौ मृगालयात् पलायितौ । मृगालयपालास्तु वनं गतं वन्यसिह्मं
कतिपयदिवसेष्वेव पुनरपि निर्बध्य मृगालयमानयन् । मृगालये जातं नागरसिह्मं नगरं
गतमन्विष्य त्रिमासादूर्ध्वं मृगालयमानीतवन्तः । द्वौ सिह्मौ प्ररस्परमभाषेताम् ।
वन्यसिह्मः : भोः वयस्य! त्वमेतावत्कालं कुत्र गतः । वने
परिभ्रमन्तं मां लीलया न्यगृह्णन् ।
नागरसिह्मः : किं वदामि? अहं नगरे
कस्मिंश्चित्सर्वकारकार्यालये दिवसानि लेख्यपत्रवृन्देष्वन्तरितः लीलया अयापयम् ।
वन्यसिह्मः : उदरपोषणं तु कथमभवत्?
नागरसिह्मः : प्रत्यहं कार्यालयोद्योगिनमेकमखादम् ।
उद्योगिनः सह्स्रशः सन्ति खलु । एकः न्यूनः अभवत् यदि तत्र कोऽपि न जानाति ।
वन्यसिह्मः : कथमिदानीं बद्धः अभूः ?
नागरसिह्मः : मया प्रमादः आचरितः खलु । ह्यः काफ़ीपरिवेष्टारं
बालमखादम् । सपद्येव तस्य अनुपस्थितिः सर्वैः लक्षिता । सर्वे तस्य मार्गणे
प्रवृत्ताः अभवन् । तदा लेखपत्रवृन्देष्वन्तर्हितं मां दृष्ट्वा भयात् पलायितवन्तः
। मृगालयपालाः आगत्य मां पञ्जरे बबन्धुः ।
- - - -
No comments:
Post a Comment