महात्मा गान्धिः तस्य उपानच्च
महात्मा गान्धिः कदाचन रेल्-याने प्रयाति स्म ।
रेल्-प्रकोष्ठस्य द्वारि तिष्ठन् बहिः प्रकृतिसौन्दर्यमनुभवन् आसीत् । सपदि तस्य
उपानदेका पादात् निरगलत् रेलयानात् अपततच्च । गान्धिवर्यः झटिति अन्यामुपानहं च
पादात् विमोच्य बहिः प्राक्षिपत् । तस्य सहचरः तमपृच्छत्, “आर्य,
कुतस्त्वया अन्या उपानदपि बहिः प्रक्षिप्ता?” । गान्धिवर्यः विहस्य अवदत्, “ एकया
उपानहा मम किं कार्यम्? यदि कश्चन बहिः उपानहौ पश्यति, तस्मै ते उपयुक्ते भवेताम् “ इति । - - - -