Tuesday, February 21, 2012

Sanskrit blog: Humour- 42

हास्यसीकरः- ४२
देवसिंहः देवनशूरः इति प्रथितः आसीत् । कार्यालयेऽपि सर्वैः सह पणबन्धं कृत्वा दीव्यति स्म । कार्यालयस्य कार्ये अनासक्तः कार्यमग्नानन्यान्श्च बाधते स्म । कार्यालयस्य अधीक्षकः तस्य देवनमोहजातहानिमसहमानः तं स्वकोष्ठमागन्तुमादिदेश । देवसिंहः कोष्ठं यथानिर्दिष्टं प्रविवेश च ।
देवसिंह, कार्यालये देवनं न कार्यमिति त्वया विदितमेव । तथापि देवने सक्तः अन्यान्श्च बाधसे । अद्यप्रभृति देवनात् विरमेः । देवनात् विरमसि न चेत् त्वामुद्योगात् निस्कासयिष्यामि। देवसिंहः, यथाज्ञापयत्यार्यः इति वदन् शनैः कोष्ठात् निष्क्रान्तः । कतिपयक्षणेषु देवसिंहः अधीक्षकस्य कोष्ठं तस्य अनुमतिमादाय पुनः प्रविवेश अवदच्च, आर्य, कार्यालये अद्यैव मम अन्तिमदेवनं भवति खलु । अतः अधुना भवता सह देवितुमिच्छामि । अनुमन्यतामार्यः । अधीक्षकः विहस्य अवदत्, मया सह किं देवनम्? कः पणः? । देवसिंहः झटित्यवदत्, आर्य भवतः उरोपृष्ठदेशे बृहत्श्यामचिह्नमस्ति । भवान् वेत्ति किम्? । चकितः अधीक्षकः अवदत्, किम् वदसि? न कदापि । निस्संशयं मम उरोपृष्ठदेशे किमपि चिह्नं नास्ति । देवसिंहः प्रत्यवदत्, आर्य, चिह्नं न भवति चेत् सहस्ररूप्यकानि भवते दास्यामि । परंतु इदानीमेव परीक्षा भवेत् । अधीक्षकः मनस्येव अचिन्तयत्, मूढोऽसौ विना कारणं मह्यं सहस्रं रूप्यकानि दातुं बद्धोऽस्ति । बाढम्, तस्मै समुचितं पाठमुपदिशामि। ममापि सहस्रं रूप्यकानां लाभो भवति ।  देवसिंह, वृथा पराजितो भवसि । मूर्खस्त्वम् । पश्य किमस्ति? इति वदन् कञ्चुकं शरीरादपानयत् विवस्त्रमुरोपृष्ठम् देवसिम्हाय अदर्शयच्च । तूर्णं देवसिंहः कोष्ठात् बहिः स्थितं सहोद्योगिनं हरदत्तनामानमाह्वयत्, हरदत्त, आगच्छ, पश्य, अधीक्षकस्य विवस्त्रमुरोपृष्ठम् । यथाप्रतिज्ञातं मह्यं द्विसहस्रं रूप्यकानि देहि इति । 
- - - -    


No comments:

Post a Comment