हास्यसीकरः-४१
तस्मिन् दिवसे वृद्धदंपत्योः विवाहादनन्तरं पञ्चाशद्वर्षाः गताः आसन् । दंपती औत्सुक्येन सम्भ्रमेण च तदवसरमुत्सवरूपेण आचरतः स्म । सायमीश्वरं प्रार्थयितुं देवालयं गतौ । प्रीतः ईश्वरः प्रत्यक्षो भूत्वा ताववदत्, “भोः, युवयोः अन्योन्यप्रेम्णा प्रीतोऽस्मि । युवां पृथक् पृथक् वरमेकं याचेथाम् ।“ पत्नी प्रथमं वरमयाचत, “प्रभो, अहं मम पत्या सह जगत्पर्यटनं कर्तुमिच्छामि” इति । ईश्वरः प्रत्यवदत्, “तथास्तु, पत्युराशा तु का” इति । झटिति चपलचित्तः पतिरवदत्, “प्रभो, वयसि मत्तः त्रिंशत्वर्षैः न्यूनां भार्यां वाञ्छामि” इति । “तथास्तु । श्वः प्रभाते युवयोः वाञ्छे फलिष्यतः” इति वदन् ईश्वरः अन्तर्दधे । पत्नी नितरां दुःखिता अभवत्, पतिः नितरां हृष्टोऽभवत् । पृथक् पृथक् पर्यङ्के सुप्तवन्तौ कथमपि रात्रिमनयताम् । शर्वर्यां प्रभातायां कोऽपि दूतः जगत्पर्यटनाय ताभ्यां विमानानुमतिपत्रमानयत् । पत्नी एव उत्थाय यानानुमतिपत्रं जग्राह । वृद्धः पतिः पर्यङ्कादुत्थातुं न शशाक । हन्त, सः पत्न्याः वयसि त्रिंशद्वर्षैः ज्यायान् समभवत् खलु ।
- - - -
No comments:
Post a Comment