Tuesday, November 1, 2022

पञ्चपादी मन्दाक्रान्ता


मन्दाक्रान्ता तव मतिरहो दुःशकालोचनैर्यत् 

त्वं मां ब्रूषेगणय कति सन्त्यक्षराण्यत्र पद्ये

संख्या लब्धा मम खलु वयोब्देष्विति स्यादसत्यम् 

न्मामेवं वदति गृहिणी मन्दहासान् किरन्ती

तां वच्म्यार्ये निशितधिषणे पञ्चमः पाद एषः’ ||

अन्वयः : गृहिणी मन्दहासान् किरन्ती माम् एवम् वदति,” अहोतव मतिः दुःशक-आलोचनैः आक्रान्ता मन्दा | य़त् त्वम् माम् ब्रूषे,’अत्र पद्ये कति अक्षराणि सन्ति, गणय | लब्धा संख्या अब्देषु मम वयः खलुइति तत् असत्यं स्यात् | अहं तां वच्मि, ‘आर्ये,निशितधिषणे, [अस्य पद्यस्य] एषः पञ्चमः पादः |”

No comments:

Post a Comment