किंवर्षीयः कवे त्वम्?
“किंवर्षीयः कवे त्वं जरठ वद” “मयास्योत्तरं नोक्तपूर्वम्”
“अस्तु, प्रश्नोऽपरो मे, कविवर कतिकृत्वो धरा कर्मनिष्ठा
।
आ त्वज्जन्मात् स्वमार्गे दिनकरमभितः सञ्चचालेति” “बाढम्,
श्लोकेऽस्मिन्नुच्यमाने गणय शितमते
योजितान्यक्षराणि” ॥
_ _ _ _
No comments:
Post a Comment