Wednesday, December 30, 2020

निजकुलकथा-३

 निजकुलकथा-३

आह्वत् संपत्कुमारं गुरुजननिकरस्स्वार्यकस्मारणार्थम्

गङ्गाम्बायाः सुपुत्रं नरहरिकृपया जातमिष्टं द्वितीयम् ।

भर्तुर्नाम्नाभिधाने कतिचनमहिला नेच्छवो ह्रीनिबद्धाः 

शेल्वप्पिल्लै हि नामाभवदभिमतं वेङ्कटाम्बाप्रदत्तम्   ॥ २१ ॥

पश्चाज्जातान्यपत्यान्यनुपमसुखदान्यञ्जसा त्रीणि तस्यां

आद्यो नाम्ना नृसिंहस्तदनु शितमती रामनाम्नैव वेद्यः

कृष्णः पुत्रः कनिष्ठो यमुचितजननीस्तन्यपानान्निवार्य 

क्रूरः कालो हताशामविदितकरुणो मातरं तामकर्षत् ॥ २२ ॥

विद्याभ्यासे प्रवृत्ताः कुशशितधिषणा आत्मजा सद्विधेयाः

पत्नी चार्वी सुशीला धनकनकचयैर्वर्धमाना यशःश्रीः ।

सर्वं देवप्रसादादिति मनसि वदत्युत्सुके ब्राह्मणेऽस्मिन्

हन्त क्रूरः क्षुधार्तः प्रहरति तरसा हर्षहन्ता विधिस्तम् ॥ २३ ॥  

झञ्झावातेन नष्टं नवहरितलताशोभितोद्यानमिष्टम्

आस्थत् हस्ती सलीलं कुसुमिततरुमुन्मूल्य दूरं वृथैव ।                      बालः क्रीडन् फलार्थी करधृतलगुडेनाभिदत् पक्षिनीडम्

संसारे का क्रिया वा परिणमति कथं कोऽस्ति वक्तुं समर्थः ॥ २४ ॥

कालो बाधां सुतीक्ष्णामपि शिथिलयत्यद्रुतं चित्तवृत्तेः

रङ्गाम्बानामकन्यां परिणयनविधौ प्राप वै श्रीनिवासः ।

सम्पन्नामा तनूजो जननमलभत श्रीनिवासस्य तस्याम्    

गञ्गानाम्न्यात्मजापि प्रथमजमनुसृत्यात्तजन्मा रराज ॥ २५ ॥ 

चेन्नैविद्यालयेऽसौ प्रथितगुरुजनेऽधीतसस्यादिशास्त्रः

शेल्वप्पिल्लै  समार्जद्गुरुजननिकरं नन्दयन् स्नातकत्वम् ।

शास्त्रप्रावीण्यमाप्तुं जिगमिषुरभवत् ख्यातपाश्चात्यदेशान्

आद्यो भूमण्डलाजिस्तमरुणदहोऽतर्कितोग्रप्रभावः ॥ २६ ॥   

पुत्रं तं प्राप्तविद्यं परिणयनविधौ शीलवत्या समेतुं

सश्रीकः श्रीनिवासः स्वविभवपदवीसाम्यभावं च काङ्क्षन् ।

सम्बन्धं कर्तुमैच्छत् सकलगुरुजनैरादृतस्याधिवक्तुः   

शीमोग्गानाम्नि चक्रे वनमभि वसतः पत्तने सागराख्ये ॥ २७ ॥

श्रीमान् नाम्ना नृसिंहः मधुमथनदयातर्कितैवेति मत्वा

पुत्रीं सीतां सुशीलामभिजनपदवीरूपपूर्णाय दातुं ।

स्वोत्साहं सम्मतं द्राक् वरजननिकरे सूचयामास हृष्टः  

संबन्धिभ्यां हि पाणिग्रहणविधिरभून्निश्चितो तूर्णमेव ॥ २८ ॥

दृष्टा पृष्टा न कन्या परिणयदिवसात् प्राङ्मनाग्भाविभर्त्रा

दृष्टो पृष्टो वयस्थो न परिणयदिनात्प्राङ्मनाक्कन्ययासौ ।

शेल्वप्पिल्लै रजस्वी प्रतिहतमनसा तां मनाक्श्यामवर्णां

अन्तर्बाष्पो विधेयो कथमपि गुरुभिः शंसितां स्वीचकार ॥ २९ ॥

शास्त्राभ्यासे पिपासाऽनवधिकपदवीं प्राप्य तं बाधते स्म

न्यायज्ञाने विशाले परिणतिमुचितां प्राप्तुमौत्सुक्यपूर्णः ।

मुम्बैपुर्यां  विधिज्ञाभ्युपगतगुणवन्न्यायविद्यालयेऽसौ

अध्यैत न्यायशास्त्रं समुपचितमनाः ब्रह्मचर्यव्रतस्थः ॥ ३० ॥

[अनुवर्तते]

No comments:

Post a Comment