निजकुलकथा-२
ग्रामण्यादिष्टमार्गे तरुणदिनकरस्यातपे वर्धमाने
गोरूरुग्राममागात्पुरजननिकरैः पीयमानो दृशाभिः ।
स्मृत्याम्नायप्रवीणं बुधजनतिलकं पण्डितं तं विदित्वा
हृष्टा ग्रामप्रधानाः समुचितवसतिं कल्पयामासुरस्मै ॥ ११ ॥
विद्वान् संपत्कुमारः कडबनिवसथादागतः सन् सुदूरात्
ग्रामस्थैः पूज्यभावात् कडबगुरुरिति व्याहृतोऽभूत्
सुशीलैः।
स्वाध्यायाध्यापनैः सः स्वसमयमुचितैर्यापयन् योगमुद्राम्
आतन्वानं नृसिंहं स्तुतिजपनियमैस्तर्पयामास साधुः
॥ १२ ॥
कस्मै कुत्रास्ति मृत्युः कथमनुभवति स्वान्तकालं
जनोऽयम्
को वा वेत्तीदमस्मिन्नघटितघटनासान्द्रलोके विशाले
।
विद्वान् विष्णुप्रियोऽयं निरवधिकदयः सज्जनः कर्मठश्च
क्षेत्रे व्यापादितोऽभूत् स्वजठरभरणप्रेरितद्वीपिनाहो
॥ १३ ॥
सह्यं वैधव्यदुःखं न भवति हि तथाप्युत्तरोदर्कदीप्त्या
स्वापत्यश्रेयसे स्वव्यथितहृदनलं धर्मपत्न्यो सहन्ते
।
कालः क्रूरस्तथापि प्रशमयति शनैर्वेदनामप्यनल्पां
ग्रावा नद्याः प्रवाहे मसृणतरतलं प्राप्नुयात् किं
न मन्दम् ॥ १४ ॥
आचार्यानीति सर्वैर्जनपदनिवहैर्व्याहृता गौरवेण
दुःखं सेहेऽस्य पत्नी कथमपि तनयौ वीक्षमाणानुरूपौ
।
पत्युर्नाम्नैव पश्चादभिहितममलं तीक्ष्णमेधाविशिष्टं
पश्यन्ती पौत्रमिष्टं भगवदनुभवे दत्तचित्ता भवन्ती
॥ १५ ॥
पौत्रः सम्पत्कुमारो निशितमतिरिति प्राप्तचिह्नः
स्वबाल्ये
पुर्यां मैसूरुनाम्न्यां सुविदितपरकालाश्रमे प्राप्तविद्यः
।
पुर्या निर्वर्त्य शास्त्राध्ययनवितरणप्रक्रियासु
प्रसक्तः
स्वग्रामे पर्यणैषीत् गुरुजनवचनाद्वेङ्कटाम्बां सुशीलाम्
॥ १६ ॥
तस्यास्तां द्वौ सुपुत्रौ सुरपहरिनिभौ पूर्वजः श्रीनृसिंहः
दैवेच्छा स्यात्कुटुम्बी सपदि मृतिमगात् हन्त तारुण्य
एव ।
नाम्नान्यः श्रीनिवासः गुरुजनदयितः मूर्त्युपाह्वः
तरस्वी
गङ्गाम्बानामकन्यां परिणयनविधौ स्वीचकाराल्पविद्यः
॥ १७ ॥
विद्यार्थं राजधानीं जिगमिषुमिमं संस्थितं नावि तातः
मा गाः कुत्रापि वत्सेत्यपिहितममतापूर्णवाचा न्यरौत्सीत्
।
नान्यः पन्थेति मत्वा स्वसमयमुचितक्षेत्रकार्येषु
युञ्जन्
वार्तोद्योगप्रवीणः पितरमनुसरन् वित्तमानर्ज भूरि
॥ १८ ॥
पुत्रे सम्पत्कुमारः धनगुणनपटौ न्यस्य कौटुम्बभारं
पूर्वं रामानुजार्यैरुषितमितिजनैरादृते मेलुकोट्टे
।
कञ्चित्कालं क्षपित्वा प्रवचनभगवद्दर्शनैः तुष्टचित्तः
काले गच्छत्यलङ्घ्यप्रकृतिनियमतः प्राप विष्णोः पदाब्जम्
॥ १९ ॥
गङ्गाम्बायामपत्यान्यजनिषत हृदानन्ददायीनि पञ्च
श्रीवत्साङ्कप्रसादादनुपमसुखदा पूर्वजा पुत्रिकाभूत्
।
अम्मय्याम्बेति नाम्ना परिणयविधिनादत्त यां सौम्यमूर्तिम्
रामस्वामी युवा यो स्ववसतिमकरोत् हेम्मिगेनामघोषे
॥ २० ॥
[अनुवर्तते]
No comments:
Post a Comment