निजकुलकथा
जि एस् एस् मूर्तिः
अज्ञातव्योऽयमज्ञः प्रणमति पुरुषं शाश्वतं विश्वरूपं
यःकश्चित् कीटतुल्योऽनुकरणपटुर्नश्वरोऽज्ञेयमाद्यम् ।
अज्ञत्वज्ञानसंपन्मदजनितमुदामुग्धचित्तप्रणुन्नः
काव्यं कर्तुं नवीनं सहृदय यतते साहसं क्षम्यतां भोः ॥ १ ॥
जाने नाहं कथास्ताः गुरुजनकथिता ईशचर्याप्रसक्ताः
जाने नैव प्रसिद्धा नृपगुणविवृतौ बद्धदीक्षा मनोज्ञाः।
जाने नान्यैः कदापि श्रुतमुचितगुणं केवलं मामकीनं
वृत्तान्तं तं प्रबद्धं शृणु विवृतमना आदृतौदार्यभावात् ॥ २ ॥
वेदान्ताचार्यभक्तो विबुधजननुतः कश्चिदात्रेयगोत्रो
नाम्ना संपत्कुमारो भुवनपतिदयापात्रभूतः कदाचित् ।
स्वाम्यं ग्रामस्य लब्ध्वा वनगिरिनिकटे कस्यचित् दूरदेशे
लब्धस्वक्षेमकार्ये निजतनुमनसोर्न्यासमङ्गीचकार ॥ ३ ॥
ग्रामं गन्तुं सुदूरं दृढवृषशकटेनोत्सुकं ब्राह्मणं स्त्री
त्यक्त्वा मामार्य गेहे कथमिव चलितुं काङ्क्षसि प्रार्थये त्वाम् ॥
रामः सीतां कृशाङ्गीमिव नय सदयं मामपि त्वत्सहायां
इत्थं घर्माश्रुपातैरविरतगदितैः स्वानुनीतं चकार ॥ ४ ॥
पत्न्या साकं प्रतस्थे निहितनिजभरो दैवते श्रीनिवासे
मार्गे पश्यन् वनान्तान्निबिडतरुगणैकीकृतोग्रान्धकारान् ।
सौवर्णव्रीहिभारप्रणतदलशतारूढकूजद्विहङ्गान्
श्रुत्वा घंटानिनादं शकटमनुसृतान् धावतो ग्रामबालान् ॥ ५ ॥
स्वापस्नानाशनार्थं क्लमविहतबलीवर्दविश्रामहेतोः
मध्ये मार्गं प्रपेदे पथिकजनहिताः भूपतेर्धर्मशालाः ।
यत्र क्लान्तापि पत्नी क्लममविगणय्यान्नमिष्टं पपाच
स्त्रीणां मुष्णाति भर्त्रा सह बहिरयनं नैजकृच्छ्राणि तासाम् ॥ ६ ॥
यात्वा दूरं चतुर्थेऽहनि दिवसकरे लम्बमाने प्रतीच्यां
निर्विण्णोऽध्वश्रमेन प्रशिथिलिततनुर्धूलिदिग्धोत्तरीयः
पत्न्या साकं कृशाङ्ग्या कृषिकजनगृहप्रोत्थधूमाभिलिप्तं
गोरम्भामग्नवीथिं सुविदितपुरबेराभिधं ग्राममागात् ॥ ७ ॥
विप्रं श्रुत्वागतं द्राक् समुचितफलपुष्पोपहारान् गृहीत्वा
एत्यार्यं तं ववन्दे सुमधुरवचसा ग्रामणीस्संबभाषे ।
स्वामिन् धन्या भवामो विदितमभवत् ग्राम एष प्रदत्तः
राज्ञास्माकं हितार्थं द्विजवर भवते न्यस्तभारा वयं भोः ॥ ८ ॥
कुत्र स्यान्मे निवासः सरिदपि भवेदत्र कुत्राप्यदूरे
पृष्टो विप्रेण नम्रोऽगददिह निकटे ह्यग्रहारः प्रशान्तः।
वामे पार्श्वे तटिन्याः सितसिकतमये वर्तते हैमवत्याः
यस्मिन् गोरूरुनाम्नि प्रणतजनमवन् राजते श्रीनृसिंहः॥ ९ ॥
नद्यास्तीरं प्रशस्तं भगवदनुभवो विप्रवर्गे प्रसंगः
सर्वा कांक्षा मदीया सपदि सफलिताः श्रीनृसिंहप्रसादात् ।
इत्थं शंसन् रमेशं विकसितवदनो ग्रामणीमभ्यनन्दत्
शं ते भूयात् सहायो भवतु निवसथप्रापणार्थं भवान्मे ॥ १० ॥
[अनुवर्तते]
No comments:
Post a Comment