निजकुलकथा-३
आह्वत् संपत्कुमारं गुरुजननिकरस्स्वार्यकस्मारणार्थम्
गङ्गाम्बायाः सुपुत्रं नरहरिकृपया जातमिष्टं द्वितीयम् ।
भर्तुर्नाम्नाभिधाने कतिचनमहिला नेच्छवो ह्रीनिबद्धाः
शेल्वप्पिल्लै हि नामाभवदभिमतं वेङ्कटाम्बाप्रदत्तम् ॥ २१ ॥
पश्चाज्जातान्यपत्यान्यनुपमसुखदान्यञ्जसा त्रीणि तस्यां
आद्यो नाम्ना नृसिंहस्तदनु शितमती रामनाम्नैव वेद्यः
कृष्णः पुत्रः कनिष्ठो यमुचितजननीस्तन्यपानान्निवार्य
क्रूरः कालो हताशामविदितकरुणो मातरं तामकर्षत् ॥ २२ ॥
विद्याभ्यासे प्रवृत्ताः कुशशितधिषणा आत्मजा सद्विधेयाः
पत्नी चार्वी सुशीला धनकनकचयैर्वर्धमाना यशःश्रीः ।
सर्वं देवप्रसादादिति मनसि वदत्युत्सुके ब्राह्मणेऽस्मिन्
हन्त क्रूरः क्षुधार्तः प्रहरति तरसा हर्षहन्ता विधिस्तम् ॥
२३ ॥
झञ्झावातेन नष्टं नवहरितलताशोभितोद्यानमिष्टम्
आस्थत् हस्ती सलीलं कुसुमिततरुमुन्मूल्य दूरं वृथैव । बालः क्रीडन् फलार्थी करधृतलगुडेनाभिदत्
पक्षिनीडम्
संसारे का क्रिया वा परिणमति कथं कोऽस्ति वक्तुं समर्थः ॥ २४
॥
कालो बाधां सुतीक्ष्णामपि शिथिलयत्यद्रुतं चित्तवृत्तेः
रङ्गाम्बानामकन्यां परिणयनविधौ प्राप वै श्रीनिवासः ।
सम्पन्नामा तनूजो जननमलभत श्रीनिवासस्य तस्याम्
गञ्गानाम्न्यात्मजापि प्रथमजमनुसृत्यात्तजन्मा रराज ॥ २५ ॥
चेन्नैविद्यालयेऽसौ प्रथितगुरुजनेऽधीतसस्यादिशास्त्रः
शेल्वप्पिल्लै समार्जद्गुरुजननिकरं
नन्दयन् स्नातकत्वम् ।
शास्त्रप्रावीण्यमाप्तुं जिगमिषुरभवत् ख्यातपाश्चात्यदेशान्
आद्यो भूमण्डलाजिस्तमरुणदहोऽतर्कितोग्रप्रभावः ॥ २६ ॥
पुत्रं तं प्राप्तविद्यं परिणयनविधौ शीलवत्या समेतुं
सश्रीकः श्रीनिवासः स्वविभवपदवीसाम्यभावं च काङ्क्षन् ।
सम्बन्धं कर्तुमैच्छत् सकलगुरुजनैरादृतस्याधिवक्तुः
शीमोग्गानाम्नि चक्रे वनमभि वसतः पत्तने सागराख्ये ॥ २७ ॥
श्रीमान् नाम्ना नृसिंहः मधुमथनदयातर्कितैवेति मत्वा
पुत्रीं सीतां सुशीलामभिजनपदवीरूपपूर्णाय दातुं ।
स्वोत्साहं सम्मतं द्राक् वरजननिकरे सूचयामास हृष्टः
संबन्धिभ्यां हि पाणिग्रहणविधिरभून्निश्चितो तूर्णमेव ॥ २८ ॥
दृष्टा पृष्टा न कन्या परिणयदिवसात् प्राङ्मनाग्भाविभर्त्रा
दृष्टो पृष्टो वयस्थो न परिणयदिनात्प्राङ्मनाक्कन्ययासौ ।
शेल्वप्पिल्लै रजस्वी प्रतिहतमनसा तां मनाक्श्यामवर्णां
अन्तर्बाष्पो विधेयो कथमपि गुरुभिः शंसितां स्वीचकार ॥ २९ ॥
शास्त्राभ्यासे पिपासाऽनवधिकपदवीं प्राप्य तं बाधते स्म
न्यायज्ञाने विशाले परिणतिमुचितां प्राप्तुमौत्सुक्यपूर्णः ।
मुम्बैपुर्यां विधिज्ञाभ्युपगतगुणवन्न्यायविद्यालयेऽसौ
अध्यैत न्यायशास्त्रं समुपचितमनाः ब्रह्मचर्यव्रतस्थः ॥ ३० ॥
[अनुवर्तते]