Thursday, April 2, 2020

भानुरयम्



सूर्यं ग्रहांश्च  समतीत्य दिशो दिदृक्षुः
विद्युज्जवाद्यदि  गमिष्यसि नाकलोकान्  ।
मन्ये  निवृत्तिसमये  भणितं  भवेत्ते
वह्निस्फुलिङ्ग इव भानुरयं चकास्ति  ॥
----

No comments:

Post a Comment