चन्द्रिका-७३
एकाकिनी नु कथमेषि विहाय
पुत्र्यौ
मा गा इह क्षपय कालमिति
ब्रुवन्तीम्।
पुत्रीमुमामवदतीप्सितनिर्णयां
माम्
रुन्धे न कोऽपि शमथं भज
मा शुचस्त्वम् ॥ २५९ ॥
श्रुत्वा स्पष्टं गिरिवदचलं
निश्चयं तं कलायाः
तस्या अङ्कं प्रति निरगमत्
चन्द्रिकाङ्कात् बिडालः ।
एकाकिन्यै सहचरसुखं रक्षणं
च प्रदातुं
तिर्यक्जन्तुः स्वऋजुचरितैः दर्शयेत् तत्त्वमार्गम्
॥ २६० ॥
मार्जारेणान्वहमनुसृतागात् कला पुण्यकाशीं
भर्त्राश्वस्ता प्रियसहचरी चन्द्रिका दीपयन्ती ।
राज्ञः सौधं पुरजनपदान् स्मेरवक्त्रा बभासे
भुञ्जानेष्टान् युवसमुचितान् धर्म्यकामान् समृद्धान्
॥ २६१ ॥
चन्द्रिकाख्यं खण्डकाव्यं सम्पूर्णम्
- - - -