चन्द्रिका-३४
अश्वोढे ललितरथे द्रुतं गतायां
वैमात्र्यां नरपगृहं सह स्वमात्रा ।
दिङ्मूढा चिरमरुदत्स्वमन्दभाग्ये
मार्जालं हृदि परिरभ्य चन्द्रिकार्ता ॥ १३७ ॥
मार्जालः परिपतति स्म सान्त्वनार्थं
मा शोचीरिति वदतीव तामुपेत्य ।
तिर्यञ्चः स्वहितजनस्य सर्वभावान्
जानन्ति प्रकृतिगतेङ्गितावबोधात् ॥ १३८ ॥ - - - -
No comments:
Post a Comment