Saturday, October 18, 2014

Sanskrit blog: Song of a bullock-cart driver



शाकटिकगीतम्

पश्यन्तौ श्यामाम्बुवाहान् मनोज्ञान्
नीलाकाशे चञ्चलास्पष्टरूपान् ।
चूतान् नीपान् पुष्पितानत्र मार्गे
यातं गावौ यातमध्वा सुदीर्घः ॥ १ ॥

जिघ्रन्तौ आमोदवत्पुष्पवृन्दान्-
वन्यान् रथ्यापार्श्वभागप्ररूढान्
मन्ये शीघ्रं गच्छथो ज्ञातमार्गे
यातं गावौ यातमध्वा सुदीर्घः ॥ २ ॥

शृण्वन्तौ मद्गायनं हृत्समुत्थम्
कांस्यग्रीवाकिङ्किणीनादतालम्
मत्तालीझङ्कारतन्त्रीसमेतम्
यातं गावौ यातमध्वा सुदीर्घः ॥ ३ ॥

वारं वारं स्पृश्यमाणौ कराभ्याम्
ईशास्तित्वस्मारणार्थं मयैवम् ।
नो चेन्मन्दं पादरम्हो भवेद्वै
यातं गावौ यातमध्वा सुदीर्घः ॥ ४ ॥

घोषे बाला स्वागतं व्याहरन्ति
शादं क्षेत्रादाहृतं नव्यमार्द्रं
अस्मद्गेहे संभ्रमादत्स्यथो द्राक् ।
यातं गावौ यातमध्वा सुदीर्घः ॥ ५ ॥
- - - - 

No comments:

Post a Comment