Saturday, May 24, 2014

Sanskrit blog: Conversation between a couple-4

पतिपत्नीसंलापः-४

कच्चित्प्रिये स्मरसि ते प्रथमं प्रयत्नम्
पत्रं विलिख्य विरचय्य च पुष्पमेकम्
वक्रीकृताक्षरविभाव्यकराग्रकम्पम्
संप्रेषितं यदभवन्मदुपोपधानम् ॥ १९ ॥

कच्चित्प्रिय स्मरसि ते पदवीधरत्वम्
संश्रुत्य हर्षपुलकैः विनिगूह्य लज्जाम् ।
त्वद्दर्शनोत्सुकतया त्वरयाऽऽगतां माम्
द्वार्येव सुस्मितकरैरबलामबध्नाः ॥ २० ॥

कच्चित्प्रिये स्मरसि मज्जनके त्वदीयम्
गेहं मया सह गते पितरं मदर्थम् ।
त्वां याचितुं तव पिता तरसाह्वयत्त्वाम् ।
स्तम्भाकृतिव्यवहिता स्मितवागभूस्त्वम् ॥ २१ ॥

कच्चित्प्रिय स्मरसि बन्धुपुरोहिताद्यैः
सम्प्रेक्षितः परिणयोत्सववेदिकायाम् ।
उच्चैर्ध्वनत्यविरतं शुभवेदघोषे
कर्णान्तिकं त्वमजपो ह्यनुरागमन्त्रम् ॥ २२ ॥

कच्चित्प्रिये स्मरसि सप्तपदीविधौ त्वम्
वेदीं हुताशनवतीं परितः चरन्ती ।
त्वत्पाणिना मृदुतमेन मदीयपाणिम्
गाढं निपीड्य किमपि व्यलिखः नखाभ्याम् ॥ २३ ॥

कच्चित्प्रिय स्मरसि कामवशं गतस्त्वम्
दाम्पत्यजीवनसुखप्रथमप्रभाते
क्लान्तां विमुच्य शयनं गमनोद्यतां माम्

उद्यम्य बाहुमबलां सबलं न्यरुन्द्धाः ॥ २४ ॥
- - - - 

No comments:

Post a Comment