Saturday, May 10, 2014

Sanskrit blog: Conversation between a couple-3

पतिपत्नीसंलापः-३

कच्चित्प्रिये स्मरसि शिक्षणसत्रचर्चा-
स्पर्धोत्सवे ननु मयाग्रपदे ऽर्जिते त्वम् ।
उच्चैः प्रशस्य करवादनरूपनुत्या
व्रीडाजिता पदयुगे न्यविशः स्वदृष्टिम् ॥ १३ ॥

कच्चित्प्रिय स्मरसि मां वटवृक्षमूले
गन्तुं पुरीं व्यवसिते त्वयि शिक्षणार्थम् ।
त्वां द्रष्टुमागतवतीं जनकात्प्रभीताम्
वृष्ट्यातपावृतधरामिव सस्मितास्राम् ॥ १४ ॥

कच्चित्प्रिये स्मरसि चैत्रविरामकाले
पुर्याः निवृत्य तव गोप्यसखीगृहे त्वाम् ।
संदृश्य जातपुलकः न किमप्यवोचम्
ऊर्जामदास्तव कटाक्षसुधानुपानैः ॥ १५ ॥

कच्चित्प्रिय स्मरसि बाष्पनिरुद्धदृष्ट्या
मां पत्तनं मम पितोन्नतशिक्षणाय ।
संप्रैषितुं मतिमतीं खलु नान्वजानत्
इत्युक्त एव हि मया त्वमसान्त्वयो माम् ॥ १६ ॥

कच्चित्प्रिये स्मरसि तत्र मया यदुक्तम्
भावीपतिस्तव करिष्यति पण्डितां त्वाम्
पाणिं मनागुदनयः मम दण्डनार्थम्
रुष्टेव हन्त न तु मे करपातभाग्यम् ॥ १७ ॥

कच्चित्प्रिय स्मरसि पुस्तकपृष्टमध्ये
प्रच्छाद्य पत्रमनुरागरसाप्लुतं ते ।
स्वस्रा सह प्रणिहितं मम वाचनार्थम्

दैवादवेन्नजनको मम तं प्रसङ्गम् ॥ १८ ॥
- - - - 

No comments:

Post a Comment