Saturday, April 26, 2014

Sanskrit blog:Conversation between a couple-2.

पतिपत्नीसंलापः-२

कच्चित् प्रिये स्मरसि ते जननी न्यगादीत् ।
मां हर्षदुःखतटबद्धनदीनिभोक्तीः।
अद्यप्रभृत्यभिमतं न ममात्मजायाः
क्रीडाप्रमोदचरितं भवता सहेति ॥ ७ ॥

कच्चित् प्रिय स्मरसि मत्सदनस्य पृष्ठे
मन्नामपत्रसहितं कुसुमं गुलाबिम् ।
पीतं सुगन्धि सुभगं निभृतं गवाक्षे ।
विन्यस्य सत्वरमगाः विनिवृत्तदृष्टिः ॥ ८ ॥

कच्चित्प्रिये स्मरसि देवनिकेतनान्तः
आवां कदाचिदभिजातजनैरुपेतौ ।
संत्यज्य भक्तजनयोग्यमतिं सलीलम् ।
अन्योन्यदृष्टिमिलनैः अवदाव नाल्पम् ॥ ९ ॥

कच्चित्प्रिय स्मरसि मामुपवीणयन्तीम् ।
श्रुत्वा मदालयसमीपमुपेयिवान् त्वम् ।
त्वामाह्वयन्ममपिता विनयाद्यदैव
गीतं ह्रिया स्खलनपूर्णमभूत्तदैव ॥ १० ॥

कच्चित्प्रिये स्मरसि ते जननीं मदीया
मातावदत् तव ततावयवेषु पुत्र्याः
काचित्स्फुरत्यतुलयौवनरूपदीप्तिः
भद्रं भवेत् तदनुरूपवरो वृतः किम् ॥ ११ ॥

कच्चित्प्रिय स्मरसि मद्भ्रुकुटीं विलोक्य
मातावदन्नगरतो वरयन्ति नैके ।
विद्यार्जनं हि ममलक्ष्यमिति प्रवक्ति

पुत्रीत्यपूर्णवचना त्वयि सन्निकृष्टे ॥ १२ ॥
- - - - 

No comments:

Post a Comment