हास्यसीकरः-९५
हरिदत्तः धर्मदत्तः सन्जयदत्तश्च वयस्याः आसन् । त्रयोऽपि
एककाले एव स्वर्गमगच्छन् । तत्र चित्रगुप्तः तानवदत्, “भोः! शृणुत, पृष्टप्रश्नस्य
सत्यमेव उत्तरं प्रदेयम् । यदि कोऽपि असत्यं वदेत् तर्हि सः स्वर्गात् बहिष्क्रियते
“ इति । अथ सः हरिदत्तमपृच्छत्, “कच्चित् भूलोके परदाररतः अभवः?”
“कदापि न प्रभो” इत्यवदत् हरिदत्तः । “बाढम्, इमानि कौशेयवस्त्राणि परिधाय स्वर्गसुखमनुभव”
इति । हरिदत्तः तुष्टः कौशेयवस्त्राणि परिजग्राह । चित्रगुप्तः धर्मदत्तमपि तथैव अपृच्छत्
। “ कदा कदा परदाररक्तः अभवम् ।परंतु पश्चात् तप्तः स्वदारास्वेव रतः अभवम्”इति । चित्रदत्तः
तस्मै कार्पासवस्त्राणि ददौ । चित्रगुप्तेन तथैव पृष्टः सन्जयदत्तः उत्तरमदात्, “क्षमस्व
माम् । अहं सदा परदारास्वेव रतः अभवम्” इति । तस्मै चित्रगुप्तः वल्कलानि ददौ । काले
गते एकदा सन्जयदत्तः हरिदत्तेन सह सममिलत् । तदा दुःखसागरे निमग्नं हरिदत्तं सन्जयदत्तः
अपृच्छत्, “मित्र! किमिदम्? कुतः दुःखमग्नः असि?” इति । “ह्यः वल्कलवस्त्रधारिणीं मम
भार्यामत्र अपश्यम् ” इति निर्विण्णः हरिदत्तः अवदत्। - - - -
No comments:
Post a Comment