Saturday, April 12, 2014

Sanskrit blog: Conversation between a couple-1

पतिपत्नीसंलापः-१
कच्चित् प्रिये स्मरसि तानि दिनानि वीथ्याम्।
वर्षागमे ऽविगणय्य वचो गुरूणाम् ।
स्थित्वा गृहाद्बहिरनर्गलवृष्टिपाते ।
आवामभूव सुतरामुदकार्द्रवस्त्रौ ॥ १ ॥

कच्चित्प्रिय स्मरसि यद्भवता तदानीम् ।
त्वत्पांसुपङ्किलकरेण समन्दहासम् ।
मुद्राङ्किता सुविशदा खलु मे कपोले ।
बाष्पाम्बुरुद्धनयनाभवमस्मये च ॥ २ ॥

कच्चित्प्रिये स्मरसि ते प्रणयाज्जनन्या ।
यत्स्वादुभक्ष्यमशनाय तव प्रदत्तम् ।
विद्यालयेऽहनि मया सह तत्त्वमादः ।
बाल्योचितप्रहसनप्रकरोपदंशम् ॥ ३ ॥

कच्चित्प्रिय स्मरसि यद्भवदीयमात्रा ।
संप्रेषिते चणकजीरकभक्तभक्ष्ये ।
संदश्य रक्तमरिचं त्वयि बद्धदृष्टिः ।
बाष्पप्रवाहपरिरुद्धविलोकनासम् ॥ ४ ॥

कच्चित् प्रिये स्मरसि मे गुरुणा परीक्षा-
काले त्वया सह वृथालपने निषिद्धे ।
आगत्य मद्गृहमपूर्वसुमप्रदान-
व्याजेन ते स्मितरुचा नितरामलिम्पः ।। ५ ॥

कच्चित् प्रिय स्मरसि रोषपरीतचित्ता
वक्तुं त्वया सह नैच्छमहानि सेर्ष्यम् ।
अङ्कार्जने परिणतं प्रतिभान्वितं त्वाम्

अन्याश्च यान्ति ललना इति शिक्षणाय ॥ ६ ॥
- - - - 

No comments:

Post a Comment