Saturday, February 15, 2014

Sanskrit blog:O! my dear sleep!

निद्रे!
संख्याता नितरां मयाऽविनिवहे सर्वे शनैरेकशः ।
ओघस्य स्वनितं सहस्रकणिकोद्भूतं समाकर्णितम् ।
दृष्टं नीलनभः मनस्यविरतं ज्योत्स्नानुलिप्तं वनम् ।
निद्रे त्वं न तथापि मामुपगता कोवापराधो मम ॥ १ ॥

पूर्वस्यां दिशि पर्वतादरुणिताभाऽऽगन्तुमेवेहते ।
आद्यः शालिवने विहंगमरवः दूराद् हि संश्रूयते ।
देवि त्वद्विरहात्प्रतप्तमधुना सङ्गम्य पाहि द्रुतम् ।
निद्रे देहि ममाखिलकटुक्लेशघ्नमालिङ्गनम् ॥ २ ॥

विश्रान्तिं प्रददासि कायहृदयव्यापारखिन्नाय वै ।
इत्याहुः सकलामयार्तिशमने श्रेष्ठा सहाया सखी ।
अद्य त्वं किमुपेक्षसे जनमिमं त्वत्सङ्गमाकाङ्क्षिणम् ।
तूर्णं मीलितलोचनं सुनिभृतं मां चुम्ब खेदापहे ॥ ३ ॥ 
[Inspired by Wordsworth's poem "sleep"]
- - - - 

No comments:

Post a Comment