हास्यसीकरः-९१
धर्मसिंहः कोल्कतानगरे कस्मिन्श्चित्शुण्डापाने मदिरां पातुं प्रतिसायमागच्छति
। मदिरायाः काचकूपी(bottle)त्रयं क्रीणाति एकैकं पिबति च । एकदा कुतूहलात् शौण्डिकः
तमपृच्छत्, “आर्य! कुतः एककाले एव काचकूपीत्रयं क्रीणासि? इतरे तु एकां काचकूपीं पीत्वा
एव अन्यां क्रीणन्ति” इति । धर्मसिंहः स्मितवदनः व्यवृणोत्, “भोः! मम भ्रातरौ स्तः
। एकः दिल्लीनगरे वसति, अन्यः मुम्बयी नगरे। अस्मिन्नेव काले सायं द्वावपि तन्नगरस्थशुण्डापाने
काचकूपीत्रयमितां मदिरां क्रीणीतः । प्रथमा काचकूपी आत्मनः पानार्थम् । द्वितीया तृतीया
तु भ्रात्रोः पानार्थम् । एकदेशे मिलितुमशक्ताः एवं संज्ञामकरवाम । यदा मदिरां पिबामः
एकस्थले एव मदिरां पिबन्तः इव भावं विन्दामः “ इति । धर्मसिंहस्य उत्तरात् तृप्तः शौण्डिकः
स्वस्थानं प्रति न्यवर्तत । एवमेव प्रत्यहं धर्मसिंहः सायमागच्छति काचकूपीत्रयं क्रीणाति,
पिबति च । एकस्मिन् दिवसे धर्मसिंहः काचकूपीद्वयमेव अक्रीणात् । शौण्डिकः मनसि अशङ्कत,
“ अस्य भ्रात्रोः अन्यतरस्य दुरवस्था आपतिता भवेत्” इति । अपरेद्युः यदा धर्मसिंहः
आगत्य काचकूपीद्वयमक्रीणात्, तदा शौण्डिकः सविनयं तमपृच्छत्, “ अपि तव भ्रातरौ कुशलौ?”
इति । धर्मसिंहः स्मयमानः अवदत्, “निस्संशयं, सखे!” इति । “ कथं काचकूपीद्वयमेव क्रीणासि?”
इति । धर्मसिंहः गम्भीरस्वरेण अवदत्, “सखे! इदानीमहं मद्यपानात् विरतः । काचकूपीद्वयं
तु मम भ्रात्रोः एव” इति ।
- - - -
No comments:
Post a Comment