Saturday, October 19, 2013

Sanskrit blog: Child's smile

शिशुस्मितम्
लसत्स्मितं पश्य शिशोर्मुखेऽङ्के सुप्तस्य मातुः सुचिरं प्रशान्तम् ।
वदास्ति हे तत्सदृशं किमन्यदस्त्यत्र लोके शिशिरं मनोज्ञम् ॥

सोमाच्च सौम्यं मधुनश्च मिष्टं सुगन्धि तत्  केतकपुष्पगन्धात् ।
वीणानिनादात् खलु मञ्जुलं तत् कौशेयवस्त्रान्मृदु सर्वकाले ॥ 
- - - - 

2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. क्रोशन्विकारं पश्य शिशोर्मुखभङ्ग उन्मत्त-मातुः दुश्चिरमुद्विग्नम् ।
    वदास्ति हे तत्सदृशं किमन्यदस्त्यत्र लोके शिशिरं शूलग्रस्तम् ॥

    ReplyDelete