Saturday, January 5, 2013

Sanskrit blog: Humour-63

हास्यसीकरः-६३
कृपण एकः सततम् अर्जितधने स्तोकं धनं व्यययित्वा, किञ्चिद्धनं भार्यायै प्रदाय शेषं धनं एकस्यां पेटिकायां निक्षिपति स्म । अवसानकाले सन्निहिते भार्यामवदत्, प्रिये, मम धनप्रियता तव ज्ञाता एव । मयि उपरते मम सधनां धनपेटिकां मया सह निवेश्य भूगतां कुरु । भार्या अवदत्, प्रिय, निस्संशयं तथैव करोमि, अलं चिन्तया इति ।
कृपणः असूनत्यजत् । विधेया अपि तु स्वार्थपरा भार्या तस्य धनपेटिकात् धनमादाय बैंके (bank) स्वसंख्याने (account) न्यस्य तद्धनसमानमौल्यं चैकं (cheque) भर्तृनाम्नि  विलिख्य तत् धनपेटिकायां न्यक्षिपत् भर्तुः शवेन साकं भूगतमकरोच्च ।
- - - -

2 comments:

  1. अहं संस्कृते नूतनः प्रविष्टवान् । कृपया न्यस्य इत्यस्य विषये ज्ञापयतु । अपि न्यस्य = नि+अस्+यत् ?

    ReplyDelete
    Replies
    1. असु क्षेपणे इति धातुः । नि इति उपसर्गः ।
      नि+असु+ल्यप् ->न्यस्य = after keeping

      Delete