Saturday, August 25, 2012

Sanskrit blog: Humour-54

हास्यसीकरः-५४
द्वौ नरौ स्वर्गद्वारे सममिलताम् तथा मिथः समभाषेताम् ।
प्रथमः अवदत्, तव मरणं कथमभूत् ?
द्वितीयः: शैत्यसाधने (refrigerator) मृतः अभूवम्। कथमभूत् तव मरणम्?
प्रथमः : मम पत्नी केनापि परपुरुषेणसह रमते इति सन्दिह्य अपराह्ने तस्यै पूर्वसूचनं न ददानः अहम् उद्योगालयात् गृहं प्रतिनिवृत्तः । सा शय्यागारे एकाकिनी प्रसाधने निरता मया दृष्टा । प्रबलशङ्काबाधितेन मया मम सौधे आ प्रथमतलात् आचतुर्थतलं प्रसभं सोपानमारुह्य सर्वासु कक्ष्यासु मार्गणं कृतम् । कुत्रापि न कोऽपि मम दृष्टिपथं गतः । नितरां क्लान्तः पञ्चमतलमारोढुं सोपाने पदं न्यविशम् । झटिति हृदयवेदनया मृतोऽभूवम्
द्वितीयः: हन्त भोः! यदि भवान् प्रथमतले एव निवेशिते शैत्यसाधने अमृगयिष्यत तदा आवां द्वावपि जीवितौ अभविष्याव ।
- - - -  

1 comment:

  1. हास्यकणिकापठने तत्परोहम्। आस्वादनावसरे प्रायेण उच्चैर्हासं न करोमि। किन्तु लेखनमिदं पठित्वा उच्चैर्हसितवान्। लेखकाय मम हार्दः धन्यवादः

    ReplyDelete