हास्यसीकरः-५३
काचन स्त्री वैद्यालयं गत्वा वैद्यं पृच्छति, “भोः,
किमिदं कृतं भवता? यावत् भवता मम भर्तरि शस्त्रचिकित्सा कृता तदा प्रभृति सः मयि
औदासीन्यं दर्शयति, विरक्त इव भाति । विषण्णोऽहं भृशम्” इति ।
वैद्यः प्रतिवदति, “देवि,
मया किंचिदपि दुष्कर्म न कृतम् । सः क्षीणदृष्टिरासीत् । तस्य दृष्टिः यथा सामान्या
भवति तथा तस्य नयनयोः शस्त्रचिकित्सा कृता खलु “ इति ।
- - - -
No comments:
Post a Comment