हास्यसीकरः-५४
द्वौ नरौ स्वर्गद्वारे सममिलताम् तथा मिथः समभाषेताम् ।
प्रथमः अवदत्, “ तव मरणं कथमभूत्
?”
द्वितीयः: “ शैत्यसाधने (refrigerator) मृतः
अभूवम्। कथमभूत् तव मरणम्?”
प्रथमः : “ मम पत्नी केनापि परपुरुषेणसह रमते इति
सन्दिह्य अपराह्ने तस्यै पूर्वसूचनं न ददानः अहम् उद्योगालयात् गृहं प्रतिनिवृत्तः
। सा शय्यागारे एकाकिनी प्रसाधने निरता मया दृष्टा । प्रबलशङ्काबाधितेन मया मम सौधे
आ प्रथमतलात् आचतुर्थतलं प्रसभं सोपानमारुह्य सर्वासु कक्ष्यासु मार्गणं कृतम् ।
कुत्रापि न कोऽपि मम दृष्टिपथं गतः । नितरां क्लान्तः पञ्चमतलमारोढुं सोपाने पदं
न्यविशम् । झटिति हृदयवेदनया मृतोऽभूवम् “ ।
द्वितीयः: “हन्त भोः! यदि भवान्
प्रथमतले एव निवेशिते शैत्यसाधने अमृगयिष्यत तदा आवां द्वावपि जीवितौ अभविष्याव ।“
- - - -