Saturday, July 28, 2012

Sanskrit bog: Thus spake Timmu the dull headed

मूढतिम्मुरुवाच

तारासहस्राणि सन्ति चेन्नभसि किम् ।
करदीप एव पान्थस्य निशि शरणम्।
दूरे स्थितं दैवमस्तु खलु मानुषो
मित्रमिच्छति कमपि मूढतिम्मो ॥ ४२४ ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕಾರಿರುಳೊಲಾಗಸದಿ ತಾರೆ ನೂರಿದ್ದೇನು
ದಾರಿಗನ ಕಣ್ಗೆ ಬೇಕೊಂದು ಮನೆಬೆಳಕು |
ದೂರದಾ ದೈವವಂತಿರಲಿ ಮಾನುಷಸಖನ
ಕೋರುವುದು ಬಡಜೀವ ಮಂಕುತಿಮ್ಮ || ೪೨೪ ||
- - - -

No comments:

Post a Comment