Saturday, July 21, 2012

Sanskrit blog: Humour-52


हास्यसीकरः-५२
काचन वृद्धा बेंगलूरु नगरस्य रेल्-निःस्थानस्य वेदिकायां स्थिता निकटे स्थितं कञ्चन पुरुषमपृच्छत्.
वृद्धा: भोः, मैसूरुनगरं प्रति रैल्-यानं निष्क्रान्तं किम्?
पुरुषः: बाढम्
वृद्धा: शिमोग्गानगरात् रैल्-यानमागतं किम्?
पुरुषः:बाढम्
वृद्धा: चेन्नै नगरं प्रति रैल्-यानं निष्क्रान्तं किम्?
पुरुषः मातः, अहं न जाने । त्वया कुत्र गन्तव्यम्?
वृद्धा: पुत्र, लोहपथं तर्तुं वाञ्छामि ।
- - - -

No comments:

Post a Comment