Friday, May 18, 2012

Sanskrit blog: Humour-48

हास्यसीकरः-४८
काचन स्त्री श्यामानाम्नी उदरवेदनया बाधिता अन्यामपृच्छत्, वैद्यं द्रष्टुमिच्छामि । तव परिचितः वैद्यः कोऽप्यस्ति किम्? अहं कञ्चन प्रथितं वैद्यं वेद्मि । परंतु तस्य दर्शनशुल्कमधिकं वर्तते । प्रथमदर्शने रूप्यकाणां त्रिशतं देयम् । उत्तरदर्शनेषु रूप्यकाणाम् शतं देयम् । इत्यवदत् । श्यामा तद्वैद्यस्य वैद्यागारमगात् , मितव्ययं काङ्क्षमाणा स्वप्रगल्भतां प्रयुयुजे, वैद्यमित्थमवदच्च, आर्य, अहं पुनरागतास्मि । उदरवेदना अद्यापि बाधते, इति । वैद्यः प्रगल्भतरः अवदत्, भवति, भवती गतदर्शने दत्तं भेषजमेव पुनः त्रिवासरपर्यन्तं सेवताम् इति ।
- - - - 

No comments:

Post a Comment