दयितेक्षणगुणबद्धः
युवा स्वोद्योगाय गन्तुमुद्यतः ।
स्वगृहाद्बहिः गतो वा
न वा देहल्येव जानाति ॥
- - - -दयितेक्षणगुणबद्धः
युवा स्वोद्योगाय गन्तुमुद्यतः ।
स्वगृहाद्बहिः गतो वा
न वा देहल्येव जानाति ॥
- - - -ब्रह्मदत्तः नगर्यां प्रथितः धनिकः न्यायवादी(lawyer) आसीत् | तथापि कृपणः सः कस्मैचिदपि दीनाय कदापि धनं न ददौ । दीनसहायः देवदत्तनामा तमागत्य अपृच्छत्, “आर्य, भवान् प्रथितः न्यायवादी प्रभूतं धनमर्जितवान् च । कथमिदं यत् भवान् कदापि दीनेभ्यः साहाय्यं धनरूपेण न कृतवान्” इति ।
ब्रह्मदत्तः गंभीरस्वरेण अवदत् , “ भोः, भवता विदितं किं मम मात्रा अर्बुदरोगग्रस्तया रुग्णालयसेवार्थं प्रत्यहं दशसहस्रं रूप्यकाणि व्ययितानि इति?” । किञ्चित्संभ्रान्तः देवदत्तः अवदत्, “न विदितम्” इति । ब्रह्मदत्तः पुनरुवाच, “ भवता विदितं किं यन्मम कलत्रयुतः भ्राता युद्धे व्रणितः भूत्वा उद्योगासमर्थः चक्रयुतासने सञ्चरन् कालं क्षपयति?”। देवदत्तः कुण्ठितवचनः नम्रः बभूव । पुनरवदत् ब्रह्मदत्तः, “ भवता विदितं किं यन्मम अनुजायाः भर्ता मार्गापघाते अम्रियत । मम अनुजायाः त्रीण्यपत्यानि इति?” ।
यावत् देवदत्तः “भवतः क्षमां याचे । नितरां दुःखितोऽस्मि” इति विवदिषुरासीत् तावदेव ब्रह्मदत्तः उवाच, “ यद्यहं तेभ्यः किञ्चिदपि साहाय्यं न दत्तवान् इतरेभ्यः किं प्रयच्छेयम्?” ।कृतं तत् गतं तत्
कृतं तत् गतं तत् न कार्यं न गम्यं ममात्रास्ति किञ्चित् ।
हर त्वं द्रुतं मां त्वदीयं परिष्वङगमेव प्रतीक्षे ॥
- - - -
- हास्यसीकरः_१२
- काचन वृद्धा पलितकेशिनी दन्तहीना नमिताकृतिः दण्डावलम्बिनी वीथ्यां शनैर्गच्छति स्म । कश्चन युवा तां दृष्ट्वा तस्याः वयोगौरवात् तां प्रणनाम । सा सुदीर्घं तं विलोक्य सहर्षमवदत्, “ रे, बहूनि वर्षाणि गतानि खलु त्वां वीक्ष्य! तदा कृशः अद्य स्थूलः, तदा उपनेत्रं नासीत् अद्य त्वं उपनेत्रधारी, तदा श्मश्रुहीनः इदानीं तु वदने प्रभूतं श्मश्रु, गच्छता कालेन महान् खलु विकारः । इदानीमेव तव नाम स्मरामि । तव नाम रामसामि इति ” ।
- युवा किञ्चिद्विहस्य अवदत्, “आर्ये, मम नाम रामसामि इति न, मम नाम कृष्णमूर्तिः” ।
- वृद्धा झटित्युवाच, “तव नामन्यपि विकारः किम्? कालस्य गतिः कियती कुटिला!” ।
- - - -कान्तचरणानाम नवं वृत्तं लक्ष्यश्लोकश्च
नवं वृत्तं एकोनविंशत्यक्षरयुक्तं कान्तचरणानाम निरूप्यते:
म्रौभ्नौ पश्चात् यनौगुः मुनियतिसहिता कान्तचरणा ।
अस्मिन् कान्तचरणानाम्नि वृत्ते मगणरगणौ तदनु भगणनगणौ पश्चात् यगणनगणौ अन्ते गुरुश्च भवन्ति । मुनियतिसहिता सप्ताक्षरान्ते यतिश्च संभवति ।
- अनेन शृङ्गारमुक्तकेन उदाहृतं च:
पुत्रे शालां प्रयाते गतवति पितरि क्रेतुमगदम्
याच्ञामादृत्य भर्तुः निधुवनसुखमिच्छोः प्रियतमा ।
भुक्ता श्रान्ता सुतृप्ता स्वपिति रमणमाश्लिष्य सुचिरम्
स्वेदक्लिन्नापराह्णे विगलितपरिधानं न गणयन् ।।