Friday, April 29, 2011

Sanskrit blog-Humour_11

हास्यसीकरः_११

ताम्रकेशिन्यः ललनाः रूपवत्यः अपि मन्दबुद्धयः इति सर्वे आमनन्ति खलु । कदाचित् काश्चन ताम्रकेशिन्यः समेत्य कस्याञ्चित् प्रागल्भ्यस्पर्धायाम् भागमगृह्णन् । प्राश्निकः अन्यतमामपृच्छत्, १४ गुण्यः, ७ गुणकः, फलं किम्? । सा अवदत्, १४७ । इतराः ताम्रकेशिन्यः एकस्वरे उच्चैरवदन्, प्राश्निकः अन्यं प्रश्नं पृच्छतु इति । तासां प्रार्थनां सम्मान्य प्राश्निकः तामपृच्छत्, द्विपञ्चाङ्कयोः संयोजनात् फलितम् किम्? । सा झटिति प्रत्युत्तरमदात्, पञ्चविंशतिः । पुनरपि सर्वा ताम्रकेशिन्यः उच्चैरभाषन्त, अन्यं प्रश्नं पृच्छतु । प्राश्निकः अपृच्छत्, एकस्य एकं संयोजय ।सा विचिन्त्य अवदत्, द्वे । इतराः प्रसभं तारस्वरेण अवदन्, कृपया प्राश्निकः अन्यं प्रश्नं पृच्छतु

_ _ _ _

No comments:

Post a Comment