Thursday, April 21, 2011

Sanskrit blog-Humour_10

हास्यसीकरः_१०

नरसिंहः वयस्यैः सह न्यूयार्क् नगर्यां कस्मिन्श्चित् बहुभूमिसौधे पञ्चाशत्तम भूमौ निवसति स्म। कदाचित् ते यदा उद्योगात्स्वनिवासं प्रतिनिवर्तितुं प्रवृत्ताः तदा विद्युत्-भंगः अभवत् । अतः निवासं प्राप्तुं सौधस्य सोपानश्रेणिं पद्भ्यामेव आरुह्य गमनं तेषामनिवार्यमभवत् । सोपानश्रेणिमारोढुं प्रवृत्ताश्च । आरोहणायासपरिहरणाय एकैकः काञ्चन कथां श्रावयेत् इति तैः स्वीकृतः । नरसिंहं विहाय सर्वे यथाशक्ति कथाः श्रावयामासुः । नरसिंहस्तु अवदत्, अहं मम कथाम् आरोहणान्ते एव कथयामि । सा कथा भयावहा वर्तते इति । इतरे सममन्यन्त च । ते यदा आरोहणस्य अन्तिमदशां प्राप्ताः तदा नरसिंहमितरे अवदन्, मित्र, इदानीं तावत् तव कथां श्रावयसि कच्चित्? इति । नरसिंहः कथयति, भो वयस्याः, इयमेव मम कथा । द्वारतालकस्य(door-lock) उद्घाटकः(key) मम उद्योगस्थाने एव वर्तते । अहं तं मया सह आनेतुं विस्मृतवान् इति।

_ _ _ _

No comments:

Post a Comment