आयाहि बन्धो
त्वरितमृदुपद्भ्यां त्वमायाहि बन्धो
दौवारिको नास्त्यनावृतं द्वारम् ॥
१ ॥
आगच्छ निःस्वनं स्वागतं ते स्यात्
प्रतीक्षा मदीया सफलं भवेद्द्राक्
॥ २ ॥
बालस्य निद्रेव तूर्णमायाहि
आगच्छ मेघवत् गर्जनं मा भूत् ॥ ३ ॥
आगच्छ चोर इव धरणीं प्लवन्त्वम्
कोऽपि पश्येन्न शृणुयान्न कोऽप्यत्र
॥ ४ ॥
यद्दर्शनीयमिह तदहं त्वपश्यम्
यद्घ्राणयोग्यमिह तदहं त्वजिघ्रम्
॥ ५ ॥
अशृणवमहं श्रव्यमत्रयल्लोके
स्पृश्यानि स्पृष्टानि भोज्यमपि भुक्तं
॥ ६ ॥
नोदनमवश्यं न कर्षणं चापि
सज्जोऽस्मि निर्भरो त्वामनुसरामि ॥
७ ॥
पश्य मां तव हसितचञ्चलितदृग्भ्यां
नयतु मां ते मृदुलहस्तावलम्बम् ॥ ८
॥
तव चरणपातमनुसरति मयि बन्धो
स्मितपल्लवं लसतु मम वदनवल्ल्याम् ॥ ९ ॥
_ _ _ _