Wednesday, November 7, 2018

डौन्-लोड् सिन्ड्रोम्

मध्ये बहूनां रोगानामेष मे बाधतेतराम् ।

डौन्-लोड् सिन्ड्रोम् इत्यवैमि प्रधानं यस्य लक्षणम् ॥ 

भवतीत्थं यदा यद्यत् डौन्-लोडबलिति श्रुतम् ।

तत्तत् तदैव तत्रैव डौन्-लोड् कर्तुं यते द्रुतम् ॥ 

डौन्-लॊड् कृतानां ग्रन्थानां संख्याऽगण्येति मे मतिः।

तेषामुद्घाटनायापि समयो नास्ति मे यदि ।

का  वार्ताध्ययनस्य स्यात्  चिन्तयन्त्विह पण्डिताः ॥

यः कालो मुद्रितग्रन्थपठने यापितो भवेत् ।

तमेव भक्षयत्येष व्याधिः किं करवाण्यहम् ॥

शान्तं पापं भवेदन्यः कोऽप्येतद्व्याधिपीडितः ।

को भिषक् किं भेषजं च कृपया बोधयेदिमम् ॥  

- - - -

No comments:

Post a Comment