विज्ञानसंस्कृतिः-१७
मेण्डलीफ्नामरसशास्त्रवित्
पाणिनेः
वर्णमालाक्रमात्स्फुरितधीः
व्यरचयत्
मूलवस्त्वणुभारमनुसृत्य
समुचितम्
क्रमबद्धगुणगणाधृतफलकमद्भुतम्
येन
नवमूलवस्त्वस्तित्वमवगतम्
तज्ज्ञानसंस्कृतेस्ताडयत
जयडिंडिमम् ॥ १८ ॥
- - - -
No comments:
Post a Comment