Saturday, November 15, 2014

Sanskrit blog: Song of a bullock cart driver-3

शाकटिकगीतम्-३



शीतं शुभ्रं गोरसं पाययामि
गत्वा गेहं मीलिताक्षौ चिराय ।
गोशालायां निर्वृतौ पास्यथो यम्
यातं गावौ यातमध्वा सुगम्यः ॥ ११ ॥

उत्तुङ्गाभ्यां सुन्दराभ्यां ककुब्भ्याम्
जित्वा सर्वानुक्षजातिप्रधानान् ।
युष्मद्वीर्यं स्थापितं ग्रामवर्गे
यातं गावौ यातमध्वा सुगम्यः ॥ १२ ॥

वृत्ते जन्मन्याप्तकर्मानुबन्धैः
अस्मिन्जन्मन्याप्तवन्तौ वृषत्वम् ।
सत्कार्यैःवां प्रेत्य मर्त्यौ भवेताम् 
यातं गावौ यातमध्वान्त एतः ॥ १३ ॥

मत्भार्याहं चैव युग्यौ भवाव
संसाराख्ये वाहने दैवदत्ते ।
कादाचित्कौ शॊकहर्षौ भजन्तौ
यातं गावौ यातमध्वान्त एतः ॥ १४ ॥
- - - - 

No comments:

Post a Comment