Saturday, August 23, 2014

Sanskrit blog: Conversations between a couple-9

पतिपत्नीसंलापः-९

कच्चित् प्रिय स्मरसि हर्षमदप्रणुन्नः
पौत्रोत्सवेऽभ्युपगते भगवत्प्रसादात् ।
उच्चैर्वदन् श्रुणुत पौत्रपितामहोऽस्मी-
त्यास्वाद्यभक्ष्यनिकरान्व्यतरः परेषु ॥ ३८ ॥

कच्चित्प्रिये स्मरसि मामवदः सखेदम्
दौहित्रपौत्रगणजातसुखानुबद्ध- ।
चित्तस्य मे स्वभवनानि गतेषु तेषु
तै रिक्तमालयमहो नरकं हि मन्वे ॥ ३९ ॥

कच्चित्प्रिय स्मरसि सान्त्वनमाददास्त्वं
लब्ध्वा पतत्रयुगलं प्रजहाति मातुः।
नीडं खगः खलु तथापि जहात्यपत्यम्
मातुर्गृहं स्वगृहनिर्मितिमग्नचित्तम् ॥ ४० ॥- - - - 

No comments:

Post a Comment