Friday, June 6, 2014

Sanskrit blog:Conversation between a couple-5

पतिपत्नीसंलापः-५

कच्चित्प्रिये स्मरसि मां तदनु न्यगादीः
ग्रामात्पुरं जिगमिषुं विभवार्जनाय ।
मा गा हृदीश न भवेयमहं विना त्वाम्
इत्यन्वगाश्च झटिति प्रणयार्दितं माम् ॥ २५ ॥

कच्चित्प्रिय स्मरसि दौहृदलक्षणस्थाम्
विद्यार्जने शिथिलिताध्यनप्रवृत्तिम् ।
संचोदयन् बहुमुखैः प्रविलोभनैर्माम्
भूयो प्रशिक्षणविधावकरोः प्रवृत्ताम् ॥ २६ ॥

कच्चित्प्रिये स्मरसि मां प्रति सूतिगेहे
सूतिव्यथाजनितरूक्षवचांसि तानि ।
संश्रुत्य ते प्रलपितानि नियम्य हासम्
शुश्रूषिका सकरुणं समसान्त्वयत्त्वाम् ॥ २७ ॥

कच्चित्प्रिय स्मरसि मोहकमर्भकं मे
पार्श्वे प्रसुप्तमवलोक्य मुहुर्मुहुस्त्वम् ।
हर्षापगारयनिमज्जनधौतचित्तां
मां प्रेमपूरितदृशा नितरामचूषः ॥॥ २८ ॥

कच्चित्प्रिये स्मरसि ता युगदीर्घरात्रीः
यासु त्वया सह सुतां ज्वरपीडिताङ्गीम् ।
अङ्के निवेश्य हिमशीतलपट्ट्बन्धैः
शीर्षस्य तापशमने बहुशोऽयते‍ऽहम् ॥ २९ ॥

कच्चित्प्रिय स्मरसि सोत्सवसंभ्रमान् तान्
पादौ परिक्षिपति च स्मयतेऽधुनेति ।
अद्यात्मनैव विचलत्युरसेति पुत्री

पद्भ्यां स्वयं चरति संप्रति जल्पतीति ॥ ३० ॥  
- - - - 

No comments:

Post a Comment