Follow by Email

Saturday, January 25, 2014

Sanskrit blog:Humour-90

हास्यसीकरः-९०
एकदा सुहृदौ अमरसिंहधर्मसिंहौ मृगयार्थं गुलिकास्त्रधारिणौ वनमगच्छताम् । मृगयाप्रसङ्गे धर्मसिंहः भल्लूकेन भृशं व्रणितः विगतासुरिव ज्ञानशूण्यः अभवत् । अमरसिंहः ससाध्वसं चलदूरभाषकेन नगरस्थितनगरभटालयस्य सम्पर्कमकरोत् अवदच्च, “भोः! मयि मम सुहृदि च मृगयार्थं वने विचरतोः मम सुहृद् भल्लूकेन व्रणितः शेते । सः न प्रतिभाषते, न जाने यदि मृतः भवेत् । भवान् कृपया निर्दिशतु मया किं करणीयमिति “। नगरभटः प्रत्युवाच, “भोः! प्रथमं तावत् त्वया दृढं ज्ञातव्यम् यदि तव सुहृत् सजीवः मृतो वा इति” । अमरसिंहः प्रत्यवदत्, “ भोः! कतिपय क्षणान् तावत् निरीक्षताम् । वदामि” इति । कतिपयक्षणानन्तरं नगरभटः दूरवाण्यां गुलिकास्त्रप्रयोगजनितशब्दमशृणोत् । सपदि एव अमरसिंहः दूरवाण्यामवदत्, “भोः! इदानीं मम सुहृत् निस्संशयं मृतः” इति । 
- - - - 

No comments:

Post a Comment