हास्यसीकरः-७३
शर्वर्यां गाढान्धकारे पर्जन्यः तडित्स्तनितसहितधारासम्पातैः
वर्षति स्म । ब्रह्मदत्तः एकाकी विजने राजपथे चलति स्म । “किञ्चित्
कार्-यानमागच्छेत् यदि चालकं प्रार्थयित्वा कार्-याने गच्छेयम्” इति
चिन्तयन् जलसिक्तः तमसि तडित्ज्वलितराजपथे न्यस्तदृष्टिः शनैः प्राचलत् । तदा
किमपि यानं शिरोदीपं विना शनैः आगच्छदिव दृष्टम् । कार्-यानस्य
द्वारमपावृतमासीत् । झटिति कार्-यानमारुह्य पृष्ठपीठे उपाविशत् । यदा
सिक्तोत्तरीयं परित्यज्य सावधानं परितः तमस्येव दृष्टिमचालयत् तदा तस्मै अवगतमभवत्
यत् चार्-चालकस्थानम् रिक्तमासीत्, कार्-याने अन्यः कोऽपि नासीत्, परन्तु
कार्-यानं चलन्नेव आसीत् । दिग्भ्रान्तः भयभीतश्च अभवत् । पर्जन्ये निरन्तरं
वर्षति सति सः कुत्र वा गच्छेत् । पीठे एव नमितसंकुचिताङ्गः ईश्वरं
प्रार्थयन् तस्थौ । सपदि कार्-यानस्य वेगः
वर्धन्निव अभात् । राजपथे दृष्टिं न्यदधात् । कस्यापि हस्तः यानस्य मार्गनियन्त्रणचक्रं
भ्रामयन्निव बभौ । पूर्वमेव भीतस्य ब्रह्मदत्तस्य भयं सीमातीतमभवत् । दैववशात्
राजपथपार्श्वे ज्वलन् दीपः दृष्टः । झटिति कार्-यानादवातरत् । दीपः अनतिदूरे
स्थितस्य कस्यचन उपाहारगृहस्य आसीत् । तं गृहं प्रति द्रुतं प्राचलत् । अचिरेणैव
उपाहारगृहमवाप च ।
उपाहारगृहे परिधानशोषणं कृत्वा उपाहारं भक्षयितुं प्रारभत ।
तदा द्वौ बृहत्कायौ सिक्तवस्त्रौ पुरुषौ तत्र आगतौ । तयोः एकः ब्रह्मदत्तं
क्रूरदृष्ट्या पश्यन् अन्यमवदत्, “रे, अयमेव
धूर्तः यः यदा आवां अस्मत्-कार्-यानस्य पृष्ठे
यानं हस्ताभ्यां बलात् प्रणुदन्तौ आस्व तदा झटिति कार्-याने समुपाविशत्” इति
।
- - - -