हास्यसीकरः-७०
क्रैस्तालयपूजकः अम्रियत, स्वर्गद्वारे अन्यैः मृतैः साकं
स्वर्गप्रवेशानुमत्यै प्रतीक्षते स्म च। तस्य पुरतः आतपोपनेत्रे वर्णरञ्जितवस्त्रे
च धारयमाणः कश्चन आर्यः अपि प्रतीक्षते स्म । स्वर्गद्वारपालकः तमार्यमवदत्, “भोः, कस्त्वम्? कथय । तव स्वर्गप्रवेशयोग्यता
अस्ति किमिति परीक्षे “ इति । स आर्यः
अवदत्, “ अहं विमानचालकः
आसम् । कतिपयवर्षेभ्यः पूर्वम् उद्योगात् निवृत्तः अभवम् “ इति । स्वर्गद्वारपालकः स्मयमानः
तमवदत्, “स्वागतं भोः,
इमे कौशेयवस्त्रे, इमं सौवर्णदण्डं च गृहाण, स्वर्गे सुखमास्स्व,“ इति ।
अथ द्वारपालकः क्रैस्तालयपूजकं तथैव अपृच्छत् ।
क्रैस्तालयपूजकः गम्भीरस्वरेण अवदत्, “भोः, अहं त्रयस्त्रिंशत् वर्षात् लंडन्-नगरे
जेम्स्-क्रैस्तालयस्य पूजकः आसम्” इति । द्वारपालकः
तमवदत्, “ बाढम्, इमे
कार्पासवस्त्रे इमं दारुदण्डं च गृहाण । स्वर्गे सुखमास्स्व “ इति । ईषत्कुपितः क्रैस्तालयपूजकः
द्वारपालकमपृच्छत्, “अहो, कथमित्थम्?
अस्मै विमानचालकाय सौवर्णदण्डं कौशेयवस्त्रे च दत्तानि, मह्यं पूजकाय दारुदण्डं
कार्पासवस्त्रे च दत्तानि । इदं न्याय्यं किम्?” । स्मयमानः द्वारपालकः अवोचत्, “ यदा त्वया क्रैस्तालये धर्मोपदेशः
कृतः तदा सभ्याः सर्वे अस्वपन्, यदा सः विमानमचालयत् तदा विमानयात्रिकाः सर्वे ईश्वरं
प्रार्थयन्त । अत एव सः स्वर्गसुखाय योग्यतरः,” इति ।
- - - -