ब्लाग्-लेखः-१००
हास्यसीकरः-५०
कदाचन कृपणः वणिक् ब्रह्मगुप्तः तस्य मित्राय धनिकाय देववर्मणे रक्तं प्रदाय मरणोन्मुखाय
तस्मै जीवदानमकरोत् । कृतज्ञः देववर्मा अमूल्यं मर्सिडीस्-कार्-यानम् उपायनरूपेण
ब्रह्मगुप्ताय ददौ । ब्रह्मगुप्तः नितरां तुष्टः अभवत् । पुनः देववर्मा रुग्णः
अभवत् । तस्मै रक्तदानमवश्यमभवत् । पुनरपि ब्रह्मगुप्तः सहर्षं मित्राय देववर्मणे
रक्तं ददौ । इदानीं तु देववर्मा मित्राय ब्रह्मगुप्ताय किमपि उपायनं न ददौ ।
अतुष्टः ब्रह्मगुप्तः देववर्माणमवदत्, “ कथमिदम् ? तदानीम् तु
कार्-यानमुपायनं अददः । इदानीं तु किमपि न ददासि?” । देववर्मा प्रत्यवदत्, “क्षमस्व माम् । इदानीं तु मम देहे प्रभूतं तव रक्तं प्रवहति खलु” ।
- - - -
No comments:
Post a Comment