ट्यूरिंगः ट्यूरिंगपरीक्षा च
अलन् मथिसन् ट्यूरिंगस्य जन्म क्रिस्तीय १९१२ वर्षे जून् मासस्य २३तमे दिवसे
अभवत् । अतः वर्तमानवर्षे तस्य जन्मशताब्दिः आचर्यते । द्वितीयमहायुद्धे ब्रिटन्-अमेरिकावृन्दस्य विजये गणकयन्त्रविज्ञानस्य आविर्भावे च अप्रतिमप्रतिभस्य ट्यूरिंग्वर्यस्य संशोधनानि महत्पात्रमवहन् ।
यदा गणकयन्त्राणि न सृष्टानि, तदा स्वप्रगल्भतया ट्यूरिंगः नूतनां प्रक्रियामेकां मनसा प्राकल्पयत्, या इदानीं “ट्यूरिंग् यन्त्रम्” इति आख्यायते । ट्यूरिंग् यन्त्रं गणकप्रक्रियाविज्ञानस्य मूलमन्त्रं खलु ।
द्वितीयमहायुद्धे जर्मनीदेशः सेनासंदेशान् अतिजटिलगूढभाषायां संवाहयति स्म । तत्भाषायाः संज्ञानां भेदने ट्यूरिंगः समर्थः अभवत् । यदा शत्रोः गूढसंदेशाः स्पष्टा अभवन् तदा ब्रिटन्-मित्रराष्ट्राणां विजयः हस्तगतः अभवत् ।
ट्यूरिंग-वर्यस्य अन्या प्रकल्पना ट्यूरिंग-परीक्षा इति
नाम्ना प्रथिता । गणकयंत्रं मनुष्यसमानां
धीशक्तिं प्राप्तवत् किम् इत्येतस्य प्रश्नस्य उत्तरं प्राप्तुमयं निकषग्रावा ।
कश्चन धीमान् देवदत्तनामा अन्येन धीमता हरिदत्तनाम्ना नरेण
तथा धीमता केनचन गणकयन्त्रेण सह एककाले दूरमुद्रक(tele-printer)
युग्ममवलम्ब्य लिखितरूपेण संभाषते इति संभावयाम । देवदत्तः कतरं दूरमुद्रकमवलम्ब्य
हरिदत्तेन सह, कतरं दूरमुद्रकमवलम्ब्य गणकयन्त्रेण सह संभाषे इति न जानाति ।
देवदत्तः समुचितप्रश्नान् लिखितरूपेण पृष्ट्वा लब्धोत्तरैः कतरं दूरमुद्रकमवलम्ब्य
हरिदत्तेन सह संभाषे इति ज्ञानं लभेत ।
हरिदत्तस्तु अहं गणकयन्त्रं न भवामि इति ज्ञानं
पुष्टीकर्तुं स्व धीशक्त्या समुचितोत्तराण्येव संदिशति । गणकयन्त्रं तु
समुचितोत्तरैः अहं मनुष्यवत् धीमदिति ज्ञानं बोधयितुं प्रयतते ।
अस्यां परीक्षायां देवदत्तस्य प्रश्नशृंखलायाः ध्येयस्तु
कतरं दूरमुद्रकमवलम्ब्य हरदत्तेन सह संभाषे इत्येतस्य ज्ञानलाभ एव । देवदत्तः स्वप्रगल्भतां सर्वामुपयुज्य प्रश्नान्
पृच्छति । तथापि यदि देवदत्तः एतद्ज्ञानं न लभते तदा तद्गणकयन्त्रस्य धीशक्तिः
मनुष्यधीशक्तिसमा एव इति सिद्ध्यते । इयमेव प्रथिता ट्यूरिंग-परीक्षा (Turing
test) । इमां परीक्षां ट्यूरिंगः १९५०तमवर्षे स्वविज्ञानप्रबन्धे
प्रासूचयत् । अद्यापि अस्याः परीक्षायाः महत्त्वमकुण्ठितं वर्तत इत्यहो
ट्यूरिंगस्य कुशाग्रबुद्धिः ।
- - - -