अन्या सृष्टिकथा
प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा
तमभणत्,
“ गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति” इति । श्वा प्रत्युवाच, “प्रभो, भषन् विंशतिः वर्षाणि कालयापनं
दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि
प्रतिनिवर्तयामि”
ईश्वरः अवदत्, “तथास्तु” ।
द्वितीये दिवसे ईश्वरः
वानरमसृजत् तमवदच्च, “ विनोदमयानि हास्यकराणि
चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति” इति । वानरः प्रत्युवाच, “प्रभो, दुष्करं खलु
विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः
दशवर्षाणि प्रतिनिवर्तयामि” इति । ईश्वरः अवदत्, “तथास्तु” ।
ईश्वरः तृतीये दिवसे धेनुमसृजत्
तामवदच्च, “ त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे
क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं
षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, “देव, दुःखभूयिष्ठं जीवितं
विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि” इति । ईश्वरः अनुमेने ।
चतुर्थे दिवसे ईश्वरः
मानवमसृजत् तमवदच्च, “ यथेच्छं भुञ्जानः स्वपन्
क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि” इति । मानवः प्रत्यवदत्, “ईश्वर, विंशतिवर्षमितम् आयुः
स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि
च मह्यं देहि” इति ।
ईश्वरः विहस्य अवदत्, “तथास्तु” ।
अत एव मानवः
विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति,
पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत्
गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।
- - - -