सीतायाः पतये नमः
संरक्ष्य कौशिकस्येज्यां भङ्क्त्वा
शैवधनुर्महत् ।
मैथिलीं यो पर्यणयत् दृप्तभार्गवदर्पहा
॥ १ ॥
पितुरादेशमादृत्य चतुर्दशसमा वनम् ।
भ्रातृभार्यासमेतः सन् योऽगच्छत् सत्यवाग्वशी ॥ २ ॥
खरसूदनसन्त्रस्तरावणेन हृतां प्रियाम् ।
विचिन्वन् दुःखसन्तप्तः पम्पातीरं जगाम यः ॥ ३ ॥
प्राप्य सुग्रीवसख्यं यो वालिनं वानराधिपम् ।
निहत्य प्राहिणोत्सीतामार्गणार्थं वनौकसः ॥ ४ ॥
उल्लङ्घ्याब्धिं प्राप्य लङ्कां सीतां सम्भाष्य मारुतिः।
लेभे यस्यपरिष्वङ्गं सर्वक्लेशनिवारकम् ॥ ५ ॥
सेतुं निबद्ध्यार्णवस्य रावणादीन् निहत्य च ।
सभार्यो योऽभिषिक्तोऽभूदयोध्यायां तपोधनैः ॥ ६ ॥
तस्मै सर्वशरण्याय सत्यधर्मव्रताय च।
रक्षित्रे जीवलोकस्य स्वजनस्य ममैव च ॥ ७ ॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ८ ॥
- - - -