Friday, October 23, 2020

पत्नी ताडयते

 

पत्नी ताडयते

चायं सुस्मितफेनभासरुचिरं सुप्तप्रबुद्धाय मे

स्वौष्ठस्पर्शमधु प्रपूर्णचषके दत्ते किलामोदवत्।

कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया

पत्नी ताडयते शिखण्डशकलेनोद्विग्नचित्तेव माम् ॥ १ ॥

दूरादागतमाननाङ्कितमुदा द्वार्येव संपृच्छति

क्लान्तः किम् सफलः श्रमः पिबसि किंचात्सीति मन्दस्मिता।

कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया

पत्नी ताडयते शिखण्डशकलेनोद्विग्नचित्तेव माम् ॥ २ ॥

[अनुवर्तते]

 

No comments:

Post a Comment